श्री कामाख्या तंत्र कवच
यस्य स्मरणमात्रेण योगिनी-डाकिनी-गणाः । राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिकाः ॥2॥
क्षुत्पिपासा तथा निद्रा तथान्ये ये च विघ्नदाः । दूरादपि पलायन्ते कवचस्य प्रसादतः ॥3॥
निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः । समासक्तमनाश्चापि जपहोमादिकर्मसु ॥
भवेच्च मन्त्र-तन्त्राणां निर्विघ्नेन सु-सिद्धये ॥4॥
~ अथ कवचम् ~
ॐ प्राच्यां रक्षतु मे तारा कामरुप-निवासिनी । आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥5॥
नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी । वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥6॥